|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.146. अध्यायः 146
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति शूद्रधर्माणां मृत्तिकाशौचादीनां च निरूपणम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
*युधिष्ठिर उवाच।
शूद्राणामिह शुश्रूषा नित्यमेवानुवर्णिता।
कैः कारणैः कतिविधा शुश्रूषा समुदाहृता॥ 13-146-1(87063)
के च शुश्रूषया लोका विहिता भरतर्षभ।
शुद्राणां भरतश्रेष्ठ ब्रूहि मे धर्मलक्षणम्॥ 13-146-2(87064)
भीष्म उवाच। 13-146-3x(7305)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
शूद्राणामनुकम्पार्थं यदुक्तं ब्रह्मवादिना॥ 13-146-3(87065)
वृद्धः पराशरः प्राह धर्मं शुभ्रमनामयम्।
अनुग्रहार्थं वर्णानां शौचाचारसमन्वितम्॥ 13-146-4(87066)
धर्मोपदेशमकिलं यथावदनुपूर्वशः।
शिष्यानध्यापयामास शास्त्रमर्थवदर्थवित्॥ 13-146-5(87067)
क्षान्तेन्द्रियेण मानेन शुचिनाऽचापलेन वै।
अदुर्बलेन धीरेण शान्तेनोत्तरवादिना॥ 13-146-6(87068)
अलुब्धेनानृशंसेन ऋजुना ब्रह्मवादिना।
चारित्रतत्परेणैव सर्वभूतहितात्मना॥ 13-146-7(87069)
अरयः षड्विजेतव्या नित्यं स्वं देहमाश्रिताः।
कामक्रोधौ च लोभश्च मानमोहौ मदस्तथा॥ 13-146-8(87070)
विधिना धृतिमास्थाय शुश्रूषुरनहंकृतः।
वर्णत्रयस्यानुमतो यथाशक्ति यथाबलम्॥ 13-146-9(87071)
कर्मणा मनसा वाचा चक्षुषा च चतुर्विधम्।
आस्थाय नियमं धीमाञ्शान्तो दान्तो जितेन्द्रियः॥ 13-146-10(87072)
रक्षोयक्षजनद्वेषी शेषान्नकृतभोजनः।
वर्णत्रयान्मधु यथा भ्रमरो धर्ममाचरेत्॥ 13-146-11(87073)
यदि शूद्रस्तपः कुर्याद्वेददृष्टेन कर्मणा॥
इह चास्य परिक्लेशः प्रेत्य चास्यासुभागतिः॥ 13-146-12(87074)
अधर्म्यमयशस्यं च तपः शूद्रे प्रतिष्ठितम्।
अमार्गेण तपस्तप्त्वा म्लेच्छेषु फलमश्नुते॥ 13-146-13(87075)
अन्यथा वर्तमानो हि न शूद्रो धर्ममर्हति।
अमार्गेणि प्रयातानां प्रत्यक्षादुपलभ्यते।
चातुर्वर्ण्यव्यपेतानां जातिमूर्तिपरिग्रहः॥ 13-146-14(87076)
तथा ते हि शकाश्चीनाः काम्भोजाः पारदास्तथा।
शबराः पप्लवाश्चैव तुषारयवनास्तथा॥ 13-146-15(87077)
दार्वाश्च दरदाश्चैव उज्जिहानास्तथेतराः।
वेणाश्च कङ्कणाश्चैव सिम्हला मद्रकास्तथा॥ 13-146-16(87078)
किष्किन्धकाः पुलिन्दाश्च कह्वाश्चान्ध्राः सनीरगाः।
गन्धिका द्रमिडाश्चैव बर्बराश्चूचुकास्तथा॥ 13-146-17(87079)
किराताः पार्वतेयाश्च कोलाश्चोलाः सकाषकाः।
आरूकाश्चैव दोहाश्च याश्चान्याम्लेच्छजातयः॥ 13-146-18(87080)
विकृता विकृताचारा दृश्यन्ते क्रूरबुद्धयः।
अमार्गेणाश्रिता धर्मं ततो जात्यन्तरं गताः॥ 13-146-19(87081)
अमार्गोपार्जितस्यैतत्तपसो विदितं फलम्।
न नश्यति कृतं कर्म शुभं वा यदि वाऽशुभम्॥ 13-146-20(87082)
अत्राप्येते वसु प्राप्य विकर्म तपसार्जितम्।
पाषण्डानर्चयिष्यन्ति धर्मकामा वृथा श्रमाः॥ 13-146-21(87083)
एवं चतुर्णां वर्णानामाश्रमाणां च पार्थिव।
विपरीतं वर्तमाना म्लेच्छा जायन्त्यबुद्धयः॥ 13-146-22(87084)
अध्यायधनिनो विप्राः क्षत्रियाणां बलं धनम्।
वणिक्कृषिश्च वैश्यानां शूद्राणां परिचारिका॥ 13-146-23(87085)
व्युच्छेदात्तस्य धर्मस्य निरयायोपपद्यते।
ततो म्लेच्छा भवन्त्येते निर्घृणा धर्मवर्जिताः।
पुनश्च निरयं तेषां तिर्यग्योनिश्च शाश्वती॥ 13-146-24(87086)
ये तु सत्यथमास्थाय वर्णाश्रमकृतं पुरा।
सर्वान्विमार्गानुत्सृज्य स्वधर्मविधिमाश्रिताः॥ 13-146-25(87087)
सर्वभूतदयावन्तो दैवतद्विजपूजकाः।
शास्त्रदृष्टेन विधिना श्रद्धया जितमन्यवः॥ 13-146-26(87088)
तेषां विधिं प्रवक्ष्यामि यथावदनुपूर्वशः।
उपादानविधइं कृत्स्नं शुश्रूषाधिगमं तथा॥ 13-146-27(87089)
शिष्टोपनयनं चैव मन्त्राणि विविधानि च।
तथा शिष्यपरीक्षां च शास्त्रप्रामाण्यदर्शनात्॥ 13-146-28(87090)
प्रवक्ष्यामि यथातत्वं यथावदनुपूर्वशः।
शौचकृत्यस्य शौचार्थान्सर्वानेव विशेषतः॥ 13-146-29(87091)
महाशौचप्रभृतयो दृष्टास्तत्वार्थदर्शिभिः।
तत्रापि शूद्रो भिक्षूणामिदं शेष च कल्पयेत्॥ 13-146-30(87092)
भिक्षुभिः सुकृतप्रज्ञैः केवलं दर्ममाश्रितैः।
सम्यद्गर्शनसम्पन्नैर्गताध्वनि हितार्थिभिः।
अवकाशमिमं मेध्यं निर्मितं तामवीरुधम्॥ 13-146-31(87093)
निर्जनं संवृतं बुद्ध्वा नियतात्मा जितेन्द्रियः।
सजलं भाजनं स्थाप्य मृत्तिकां च परीक्षिताम्॥ 13-146-32(87094)
परीक्ष्य भूमिं मूत्रार्थी तत आसीत वाग्यतः।
उदङ्मुखो दिवा कुर्याद्रात्रौ चेद्दक्षिणामुखः॥ 13-146-33(87095)
अन्तर्हितायां भूमौ तु अन्तर्हितशिरास्तथा।
असमाप्ते तथा शौचे न वाचं किञ्चिदीरयेत्॥ 13-146-34(87096)
कृतकृत्यस्तथाऽऽचम्य गच्छन्नोदीरयेद्वचः।
शौचार्थमुपविष्टस्तु मृद्गाजनपुरस्कृतः॥ 13-146-35(87097)
स्थाप्यं कमण्डलुं गृह्यि पार्श्वोरुभ्यामथान्तरे।
शौचं कुर्याच्छनैर्वीरो बुद्धिपूर्वमसङ्करम्॥ 13-146-36(87098)
पाणिना शुद्धमुदकं सङ्गृह्य विधिपूर्वकम्।
विप्रुषश्च यता न स्युर्यथा चोरू न संस्पृशेत्॥ 13-146-37(87099)
अपाने मृत्तिकास्तिस्रः प्रदेयास्त्वनुपूर्वशः।
हस्ताभ्यां च तथा विप्रो हस्तं हस्तेन संस्पृशेत् 13-146-38(87100)
अपाने नव देयाः स्युरिति वृद्धानुशासनम्।
मृत्तिका दीयमाना हि शोधयेद्देशमञ्जसा॥ 13-146-39(87101)
तस्मात्पाणितले देया मृत्तिकास्तु पुनः पुनः।
बृद्धिपूर्वं प्रयत्नेन यथा नैव स्पृशेत्स्फिजौ॥ 13-146-40(87102)
यथा घातो हि न भवेत्क्लेदजः परिधानके।
तथा गुदं प्रमार्जेत शौचार्थं तु पुनःपुनः॥ 13-146-41(87103)
प्रतिपादं ततस्त्यक्त्वा शौचमुत्थाय कारयेत्।
सव्ये द्वादश देयाः स्युस्तिस्रस्तिस्रः पुनः पुनः।
देया कूर्परके हस्ते पृष्ठे बन्धे पुनः पनः। 13-146-42(87104)
तथैवादर्शके दद्याच्चतस्रस्तूभयोरपि।
उभयोर्हस्तयोरेवं सप्तसप्त प्रदापयेत्॥ 13-146-43(87105)
ततोऽन्यां मृत्तिकां गृह्य कार्यं शौचं पुनस्तयोः।
हस्तयोरेवमेतद्धि महाशौच विधीयते।
ततोऽन्यथा न कुर्वीत विधिरेष सनातनः॥ 13-146-44(87106)
उपस्थे मूत्रशौचं स्यादत ऊर्ध्वं विधीयते।
अतोऽन्यथा तु यः सुर्यात्प्रायश्चित्तीयते तु सः॥ 13-146-45(87107)
मलोपहतचेलस्य द्विगुणं तु विधीयते।
सहपादमथोरुभ्यां हस्तशौचमसंशयम्॥ 13-146-46(87108)
अवधीरयमाणस्य सन्देह उपजायते।
यथायथा विशुद्ध्येत तत्तथा तदुपक्रमे॥ 13-146-47(87109)
सकर्दमं तु वर्षासु गृहमाविश्य सङ्कटम्।
हस्तयोर्मृत्तिकास्तिस्रः पादयोः षट् प्रदापयेत्॥ 13-146-48(87110)
कामं दत्त्वा गुदे दद्यात्तिस्रः पद्भ्यां तथैव च।
हस्तशौचं प्रकर्तव्यं मूत्रशौचविधेस्तथा॥ 13-146-49(87111)
मूत्रशौचे तथा हस्तौ पादाभ्यां चानुपूर्वशः।
नैष्ठिके स्थानशौचे तु महाशौचं विधीयते॥ 13-146-50(87112)
क्षारौषराभ्यां वस्त्रस्य कुर्याच्छौचं मृदा सह।
लेपगन्धापनयनममेध्यस्य विधीयते॥ 13-146-51(87113)
स्नानशाट्यां मृदस्तिस्रो हस्ताभ्यां चानुपूर्वशः।
शौचं प्रयत्नतः कृत्वा कम्पमानः समुद्धरेत्॥ 13-146-52(87114)
देयाश्चतस्रस्तिस्रो वा द्वे वाऽप्येकां तथाऽऽपदि।
कालमासाद्य देशं च शौचस्य गुरुलाघवम्॥ 13-146-53(87115)
विधिनाऽनेन शौचं तु नित्यं कुर्यादतन्द्रितः।
अविप्रेक्षन्नसम्भ्रान्तः पादौ प्रक्षाल्य तत्परः॥ 13-146-54(87116)
अप्रक्षालितपादस्तु पाणिमामणिबन्धनात्।
अधस्तादुपरिष्टाच्च ततः पाणिमुपस्पृशेत्॥ 13-146-55(87117)
मनोगतास्तु निश्शब्दा निश्शब्दं त्रिरपः पिबेत्।
द्विर्मुखं परिमृज्याच्च खानि चोपस्पृशेद्बुधः॥ 13-146-56(87118)
ऋग्वेदं तेन प्रीणाति प्रथमं यः पिबेदपः।
द्वितीयं तु यजुर्वेदं तृतीयं साम एव च॥ 13-146-57(87119)
मृज्यते प्रथमं तेन अथर्वा प्रीतिमाप्नुयात्।
द्वितीयेनेतिहासं च पुराणस्मृतिदेवताः॥ 13-146-58(87120)
यच्चक्षुषि समाधत्ते तेनादित्यं तु प्रीणयेत्।
प्रीणाति वायुं घ्राणं च दिशश्चाप्यथ श्रोत्रयोः॥ 13-146-59(87121)
ब्रह्माणं तेन प्रीणाति यन्मूर्धनि समापयेत्।
समुत्क्षिपति चापोर्ध्वमाकाशं तेन प्रीणयेत्॥ 13-146-60(87122)
प्रीणाति विष्णुः पद्भ्यां तु सलिलं वै समादधत्॥
प्राङ्मुखोदङ्मुखो वाऽपि अन्तर्जानुरुपस्पृशेत्। 13-146-61(87123)
सर्वत्र विधिरित्येष भोजनादिषु नित्यशः॥
अन्नेषु दन्तलग्नेषु उच्छिष्टः पुनराचमेत्। 13-146-62(87124)
विधिरेष समुद्दिष्टः शौचे चाभ्युक्षणं स्मृतम्॥
शूद्रस्यैव विधिर्दृष्टो गृहान्निष्क्रमतस्ततः। 13-146-63(87125)
नित्यं त्वलुप्तशौचेन वर्तितव्यं कृतात्मना।
यशस्कामेन भिक्षुभ्यः शुद्रेणात्महितार्थिना'॥ ॥ 13-146-64(87126)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षट्चत्वारिंशदधिकशततमोऽध्यायः॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
* एतदाद्यष्टाध्याया दाक्षिण्यत्यकोशेष्वेन दृश्यन्ते। 7-146-2 शुश्रूषां भरतश्रेष्ठति ट.पाठः॥ 7-146-11 नित्यं रक्ष जनाद्वेषीति क. पाठः॥ 7-146-12 विकृताकारा इति थ.पाठः॥ 7-146-25 स्वधर्मपथमाश्रिताः इति क.ट.थ. पाठः॥ 7-146-48 पदमाविश्य सङ्कटम् इति थ.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|